वांछित मन्त्र चुनें

म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु॑म् । सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशु॒: पुन॑: ॥

अंग्रेज़ी लिप्यंतरण

mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum | sam avivyacur uta yāny atviṣur aiṣāṁ tanūṣu ni viviśuḥ punaḥ ||

पद पाठ

म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् । सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥ १०.५६.४

ऋग्वेद » मण्डल:10» सूक्त:56» मन्त्र:4 | अष्टक:8» अध्याय:1» वर्ग:18» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः-देवेषु-अपि क्रतुम्-अदधुः) विद्वान् जन अपनी इन्द्रियों में शिवसङ्कल्प-सद्भावना को भरते हैं (एषां महिम्नः पितरः-चन ईशिरे) इसके महत्त्वपूर्ण प्रवचन द्वारा गृहस्थजन भी अपनी इन्द्रियों का स्वामित्व करते हैं। (सम् विव्यथुः) उनका सम्यक् व्यवहार करते हैं (उत) और (यानि-अत्विषुः) जिन स्थानों जन्मस्थानों को प्रकाशित करते हैं (एषां तनूषु) इनके शरीरों में (पुनः-निविविशुः) पुनः निविष्ट होते हैं-पुनः प्रसिद्ध होते हैं ॥४॥
भावार्थभाषाः - विद्वान् जन शिवसंकल्प या सद्भाव के अनुसार अपनी इन्द्रियों को चलाते हैं तथा गृहस्थ जन भी उनके उपदेशानुसार अपनी इन्द्रियों का स्वामित्व करते हैं और उन-उनके अपने स्थानों में अपनी शक्ति द्वारा प्रसिद्ध होते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः-देवेषु-अपि क्रतुम्-अदधुः) विद्वांसः खलु स्वकीयेन्द्रियेषु स्वसङ्कल्पं धरन्ति स्वशिवसङ्कल्पं भरन्ति (एषां महिम्नः पितरः-चन-ईशिरे) एतेषां महत्त्वपूर्णप्रवचनेन गृहस्थजनाः खल्वपि चेन्द्रियाणां स्वामित्वं कुर्वन्ति (सम् विव्यथुः) तानि सम्यग् व्यवहरन्ति (उत) अपि च (यानि-अत्विषुः) यानि स्थानानि जन्मस्थानानि प्रकाशन्ते (एषां तनूषु) एषां शरीरेषु (पुनः-निविविशुः) पुनर्निविशन्ते पुनर्जायन्ते ॥४॥